NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

Shemushi Sanskrit Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

अभ्यासः

प्रश्ना 1.
अधोलिखितप्रश्नानाम् उनराणि संस्कृतभाषया लिखत-
(क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
उत्तर:
चन्दनदासः अमात्यराक्षस्य गृहजनं स्वगृहे रक्षति स्म।

(ख) तृणानां केन सह विरोधः अस्ति?
उत्तर:
तृणानां अग्निना सह विरोधः अस्ति।

(ग) कः चन्दनदासं द्रष्टुमिच्छति?
उत्तर:
चाणक्यः चन्दनदासं द्रष्टुमिच्छति।

(घ) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
उत्तर:
पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता?

(ङ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
उत्तर:
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजान इच्छन्ति?

(च) कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
उत्तर:
चन्द्रगुप्तस्य प्रसादेन चन्द्रनदासस्य वाणिज्या अखण्डिता?

प्रश्ना 2.
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) शिविना विना इदं दुष्करं कार्य कः कुर्यात्।
उत्तर:
केन् विना इदं दुष्कर कार्य कः कुर्यात्?

(ख) प्राणेभ्योऽपि प्रियः सुहृत्।
उत्तर:
प्राणेभ्योऽपि प्रियः कः?

(ग) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
उत्तर:
कस्य प्रसादेन मे वाणिज्या अखण्डिता?

(घ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
उत्तर:
प्रीताभ्यः प्रकृतिभ्यः के प्रतिप्रियमिच्छन्ति?

(ङ) तृणानाम् अग्निना सह विरोधो भवति।
उत्तर:
केषाम् अग्निना सह विरोधो भवति?

प्रश्ना 3.
यथानिर्देशमुनरत-
(क) ‘अखण्डिता में वणिज्या’-अस्मिन् वाक्ये व्यिापदं किम्?
उत्तर:
अखण्डिता

(ख) पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
उत्तर:
इदानीम्

(ग) ‘आर्य! किं मे भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपदं कस्मै प्रयुक्तम्?
उत्तर:
चाणक्यः

(घ) ‘प्रीताभ्यः प्रछतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तर:
राजानः

(ङ) तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तर:
गृहे

प्रश्ना 4.
निर्देशानुसारं सन्धि/सन्धिविच्छेदं कुरुत-
(क) यथा- कः + अपि – कोऽपि
प्राणेभ्यः + अपि – ………..
……….. + अस्मि – सज्जोऽस्मि।
आत्मन: + ……….. – आत्मनोधिकारसदृशम्
उत्तर:
यथा- कः + अपि – कोऽपि
प्राणेभ्यः + अपि – प्राणेभ्यऽपि
सज्जः + अस्मि – सज्जोऽस्मि।
आत्मनः + अधिकारसदृशम्-आत्मनोधिकारसदृशम्

(ख) यथा- सत् + चित् – सच्चित्
शरत् + चन्द्रः — …………
कदावित् + च – ………..
उत्तर:
यथा- सत् + चित् – सच्चित्
शरत् + चन्द्रः – शरच्चन्द्र
कदाचित् + च – कदाचित

प्रश्ना 5.
अधोलिखितवाक्येषु निर्देशानुसारं परिवर्तनं कुरुत-
यथा-प्रतिप्रियमिच्छन्ति राजानः। (एकवचने) प्रतिप्रियमिच्छति राजा।
(क) सः प्रकृतेः शोभां पश्यति (बहुवचने)
उत्तर:
ते प्रकृतेः शोभा पश्यन्ति।

(ख) अहं न जानामि। (मध्यमपुरुषैकवचने)
उत्तर:
त्वम् न जानासि।

(ग) त्वं कस्य गृह जन स्वगृहे रक्षसि? (उत्तमपुरुषैकवचने)
उत्तर:
अहं कस्य गृहजनं स्वगृहे रक्षामि?

(घ) कः इदं दुष्करं कुर्यात्? (प्रथमपुरुषबहुवचने)
उत्तर:
के इदं दुष्करं कुर्युः?

(ङ) चन्दनदासं द्रष्टुमिच्छामि। (प्रथमपुरुषैकवचने)
उत्तर:
चन्दन दासः द्रष्टुम इच्छति।

(च) राजपुरुषाः देशान्तरं व्रजन्ति। (प्रथमपुरुषैकवचने)
उत्तर:
राजपुरुषः देशान्तरं व्रजति।

प्रश्ना 6.
(अ) कोष्ठकेषु दनयोः पदयोः शुद्धं विकल्पं विचित्य रिक्तस्थानानि पूरयत-
(क) ……….. विना इदं दुष्करं कः कुर्यात्। (चन्दनदासस्य / चन्दनदासेन)
उत्तर:
चन्दनदासेन्

(ख) …………….. इदं वृनान्तं निवेदयामि। (गुरवे । गुरोः)
उत्तर:
गुरवे

(ग) आर्यस्य …………… अखण्डिता मे वणिज्या। (प्रसादात् / प्रसादेन)
उत्तर:
प्रसादेन

(घ) अलम् …………….. । (कलहेन । कलहात्)
उत्तर:
कलहेन्

(ङ) वीरः …………… बालं रक्षति। (सिंहेन /वसिंहात्)
उत्तर:
सिहात्

(च) …………. भीतः मम भ्राता सोपानात् अपतत्। (कुक्कुरेण / कुक्कुरात्)
उत्तर:
कुक्कुरात्

(छ) छात्रः …………. प्रश्नं पृच्छति। (आचार्यम् / आचार्येण)
उत्तर:
आचार्यम्।

(आ) अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत-
असत्यम् पश्चात् गुणः आदरः तदानीम् तत्र
(क) अनादरः ……………
उत्तर:
आदरः

(ख) दोषः ………………
उत्तर:
गुणः

(ग) पूर्वम् ……………….
उत्तर:
पश्चात्

(घ) सत्यम् ……………
उत्तर:
असत्यम्

(ङ) इदानीम् ……………
उत्तर:
तदानीय

(च) अत्र ……………
उत्तर:
तत्र

प्रश्ना 7.
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथा निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।-
(क) उपसृत्य ………………..
उत्तर:
आदित्यः मातरम् उपसत्य प्रणमति।

(ख) प्रविश्य ………………..
उत्तर:
आचार्यः कक्षां प्रविश्य पाठयति।

(ग) द्रष्टुम् ………………..
उत्तर:
लता चलचित्रं द्रष्टम् इच्छति।

(घ) इदानीम् ………………..
उत्तर:
सः इदानी खेलति।

(ङ) अत्र …………….
उत्तर:
अत्र मनोहरम् तडागः अस्ति।

अन्यपरीक्षोपयोगी प्रश्नाः

प्रश्ना 1.
पाठात् समुचित-विलोमपदान चित्वा लिखत-
(पाठ से उचित विलोत शब्दों को चुनकर लिखिए)
(क) प्रविश्य …………..
उत्तर:
निष्क्रम्य्

(ख) अप्रियम् …………..
उत्तर:
प्रियम

(ग) सत्यम् …………..
उत्तर:
असव्यम

(घ) आयान्ति, आगच्छन्ति …………..
उत्तर:
गच्छन्ति

(च) सन्तम् …………..
उत्तर:
असन्तम्

प्रश्ना 2.
पाठात् समुचित पार्यय पदानि लिखा।
(क) मन्त्री …………..
उत्तर:
अमात्यः

(ख) आच्छाद्य …………..
उत्तर:
पिधाय

(ग) दुःखाभावः …………..
उत्तर:
अपरिक्लेशः

(घ) स्वगतम् …………..
उत्तर:
आत्मगतम्

(च) उपगम्य …………..
उत्तर:
उपसृत्य।

प्रश्ना 3.
प्रस्तुत पाठ पठित्वा अधोलिखित प्रश्नानां उत्तरणि लिखत-
(प्रस्तुत पाठ को पढ़कर निम्नलिखित प्रश्नों के उत्तर लिखिए-)
1. एकपदेन उत्तरत
(क) चन्दनदासः कः आसीत्स?
उत्तर:
मणिकारश्रेष्ठी

(ख) राजप्रसादेन तस्य वणिज्या की दुशी?
उत्तर:
अखण्डिता

(ग) राजनि कीदृशः भव?
उत्तर:
अवरुद्धवृति:

(घ) अमात्यः कीदृशः आसीत्?
उत्तर:
राजापथ्यकिारी

(च) अस्मद् गृहे कस्य अहजनः पूर्वम् आसीत?
उत्तर:
अमात्यसक्षसस्य।

योग्यताविस्तारः

कविपरिचयः

‘मुद्राराक्षसम्’ इति नाटकस्य प्रणेता विशाखदत्तः आसीत्। सः राजवंशे उत्पन्नः आसीत्। तस्य पिता भास्करदत्तः महाराजस्य पदवी प्राप्नोत्। विशाखदत्तः राजनीते: न्यायस्य ज्योतिषविषयस्य च विद्वान् आसीत्। वैदिकधर्मावलम्बी भूत्वाऽपि सः बौद्धध र्मस्य अपि आदरमकरोत्।

ग्रन्थपरिचयः

‘मुद्राराक्षसम्’ एकम् ऐतिहासिक नाटकम् अस्ति। दशाङ्केषु विरचिते अस्मिन्नाटके चाणक्यस्य राजनीतिककौशलस्य बुद्धिवैभवस्य राष्ट्रसञ्चालनार्थम् कूटनीतीनाम् निदर्शनमस्ति। अस्मिन्नाटके चाणक्यस्यामात्यराक्षसस्य च कूटनीत्योः संघर्षः।

भावविस्तारः
चाणक्य-चाणक्यः एकः विद्वान् ब्राह्मणः आसीत्। तस्य पितृप्रदत्तं नाम विष्णुगुप्तः आसीत्। अयमेव ‘कौटिल्य’ इति नाम्ना प्रसिद्धः। केषाञ्चित् विदुषाम् इदमपि मतमस्ति यत् राजनीतिशास्त्रे कुटिलनीतेः प्रतिष्ठापनाय तस्याः स्व-जीवने उपयोगाय च अयं ‘कौटिल्यः’ इत्यपि कथ्यते। चणकनामकस्य कस्यचित् आचार्यस्य पुत्रत्वात् ‘चाणक्यः’ इति नाम्ना स प्रसिद्धः जातः। नन्दानां राज्यकालः शतवर्षाणि पर्यन्तम् आसीत्। तेषु अन्तिमेषु द्वादशवर्षेषु एतेन सुमाल्यादीनाम् अष्टनन्दानां संहारः कारितः तथा च चन्द्रगुप्तमौर्यः नृपत्वेन राजसिंहासने स्थापितः। अयमेकः महान् राजनीतिज्ञः आसीत्। एतेन भारतीयशासनव्यवस्थायाः प्रामाणिकतत्त्वानां वर्णनेन युक्तं “अर्थशास्त्रम्” इति अतिमहत्त्वपूर्णः ग्रन्थः रचितः।

चन्द्रगुप्तमौर्य:-चन्द्रगुप्तः महापद्मनन्दस्य मुरायाः च पुत्रः आसीत्। चाणक्यस्य मार्गदर्शने अनेन चतुर्विंशतिवर्षपर्यन्तं राज्यं कृतम्।
राक्षस:-नन्दराज्ञः स्वामिभक्तः चतुरः प्रधानामात्यः आसीत्।
चन्दनदासः-कुसुमपुर नाम्नि नगरे महामात्यस्य राक्षसस्य प्रियतमं पात्रं मित्रञ्च आसीत्। स मणिकारः श्रेष्ठी च आसीत्। अस्यैव गृहात् राक्षसः सपरिवारः नगरात् बहिरगच्छत्।

भाषिकविस्तारः
1. पृथक् और विना शब्दों के योग में द्वितीया तृतीया और पंचमी तीनों विभक्तियों का प्रयोग-
यथा-

जलं विना जीवनं न सम्भवति। द्वितीया
जलेन विना जीवनं न सम्भवति। तृतीया
जलात् विना जीवनं न सम्भवति। पंचमी
परिश्रमं पृथक् नास्ति सुखम्। द्वितीया
परिश्रमेण पृथक् नास्ति सुखम्। तृतीया
परिश्रमात् पृथक् नास्ति सुखम्। पंचमी

2. अनीयर् प्रत्ययप्रयोगः
अत्यादरः शङ्कनीयः
जन्तुशाला दर्शनीया
याचकेभ्यः दानं दानीयम्
वेदमन्त्राः स्मरणीयाः
पुस्तकमेलापके पुस्तकानि क्रयणीयानि।
(क) अनीयर् प्रत्ययस्य प्रयोगः योग्यार्थे भवति।
(ख) अनीयर् प्रत्यये ‘अनीय’ इति अवशिष्यते।
(ग) अस्य रूपाणि त्रिषु लिगेषु चलन्ति।

यथा-

पुंल्लिने स्त्रीलिङ्गे नपुंसकलिङ्गे
पठनीयः पठनीया पठनीयम्

इनके रूप क्रमशः देववत्, लतावत् तथा फलवत् चलेगें।

3. उभ सर्वनामपदम्

पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
उभौ उभे उभे
उभौ उभे उभे
उभाभ्याम् उभाभ्याम् उभाभ्याम्
उभाभ्याम् उभाभ्याम् उभाभ्याम्
उभाभ्याम् उभाभ्याम् उभाभ्याम्
उभयोः उभयोः उभयोः
उभयोः उभयोः उभयोः

Leave a Comment

Your email address will not be published. Required fields are marked *